पाटलीपुत्रम्
पाटलीपुत्रं पुरातनभारतस्य किञ्चन नगरम् आसीत्। एतत् नगरम् अजातशत्रुणा स्थापितम्। तदनन्तरं पाटलीपुत्रं मगधमहाजनपदस्य राजधानी अभवत्। द्वौ बौद्धसङ्घौ अत्रैव अभवताम् । महाराजस्य अशोकस्य शासनकाले पाटलीपुत्रं भूमौ वरिष्ठं नगरम् आसीत्। यवनराजदूतः मेगास्तनीस् अस्य सौन्दर्यं वर्णितवान् अस्ति । द्वादशशतके मुसल्मान् आक्रमकाराः एतत् नगरं नाशितवन्तः। अस्य अवशेषाः इदानीन्तनपटनानगरस्य अधः सन्ति । बिहारराज्यस्य महानगरमेतत् राज्यस्य राजधानी अस्ति । अस्य पाटलीपुत्रम् इति नाम आसीत् गङ्गानद्याः तीरे ८ कि.मी दीर्घप्रदेशे व्याप्तं नगरमेतत् । पूर्वदिशि प्राचीनपाटनानगरस्य भागः अस्ति । पश्चिमदिशि नवपटनानगरमस्ति । अत्रैव प्राशासनिकभवनानि सन्ति । मुख्यकार्यालयस्य पुरतः हुतात्मास्मारकं निर्मितम् अस्ति । गोलघर् धान्यसङ्ग्रहालयः क्रिस्ताब्दे १७७० तमे वर्षे निर्मितः। लार्ड् हेस्टिङ्ग महोदयेन रुपितं विचित्राकारकं भवनम् एतत् । एतत् २५ मीटर् उन्नतमस्ति । अस्य शिखरप्रदेशतः पाटनानगरस्य म्यूसीयं, गुरुद्वारं, सिक्खानां हरमन्दिरं, पाटनादेवीमन्दिरं सरदार-आश्रमः च द्रष्टुं शक्यते । खुदाभक्षप्राचीनवाचनालयः कुम्राहारप्राचीनपाटलीपुत्रम् (६ कि.मी) दूरे स्तः । कुम्राहार अशेकचक्रवर्तेः राजधानी आसीत् । क्रिस्तपूर्वतॄतीयशतके चन्द्रगुप्तमौर्यस्य बिन्दुसारस्य च राजधानी अत्र आसीत् । अत्र एकं सभाभवनमासीत् । इदानीं केवलं स्तम्भाः सन्ति । आनन्दविहारनामकं बौद्धमठम् अत्र आसीत् । पाटनासमीपे दर्शनीयानि स्थानानि वैशाली राजगीर नळन्दा इत्यादीनि ।
धूमशकटमार्गः
सम्पादयतुपूर्वविभागे देहली-पाटना, कोलकाता-पाटना धूमशकटमार्गौ स्तः । पाटना बृहन्निस्थानमस्ति ।
विमानमार्गः
सम्पादयतुदेहलीवारणसी- इत्यादिनगरेभ्यः विमानसम्पर्कः अस्ति । पाटना टूर्स् एण्ड् ट्रावल्स् प्रवासव्यवस्थां करोति ।