पटनामण्डलं (मगही: 𑂣𑂗𑂢𑂰⸱𑂧𑂝𑂹𑂙𑂪/पटना मण्डल, हिन्दी: पटना ज़िला, आङ्ग्ल: Patna district) भारतस्य बिहारराज्ये स्थितं किञ्चन मण्डलमस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति पटनानगरं यत् बिहारराज्यस्य राजधानी अपि अस्ति । पटनामण्डलं पटनाविभागस्य भागः अस्ति ।

पटनामण्डलम्

𑂣𑂗𑂢𑂰⸱𑂧𑂝𑂹𑂙𑂪 / पटना मण्डल
पटना ज़िला
गोलघर इत्यस्य दृश्यम्
गोलघर इत्यस्य दृश्यम्
Location of पटनामण्डलम्
Coordinates (पटना): २५°२५′ उत्तरदिक् ८५°१०′ पूर्वदिक् / 25.417°उत्तरदिक् 85.167°पूर्वदिक् / २५.४१७; ८५.१६७निर्देशाङ्कः : २५°२५′ उत्तरदिक् ८५°१०′ पूर्वदिक् / 25.417°उत्तरदिक् 85.167°पूर्वदिक् / २५.४१७; ८५.१६७
देशः भारतम् भारतम्
राज्यम् बिहार
विभागः पटना
मुख्यालयः पटनानगरम्
Government
 • लोकसभा निर्वाचनक्षेत्राणि १. पाटलिपुत्र,
२. पटना साहिब,
३. मुङ्गेर (मुङ्गेरमण्डलेन सह आप्नोति)
 • विधानसभा निर्वाचनक्षेत्राणि १४
Area
 • योगः ३,२०२ km
Population
 (२०११)
 • योगः ५८,३८,४६५
 • Rank (भारतदेशे- १५तम)[]
 • Density १,८००/km
 • Urban
२५,१४,५९०
जनसङ्ख्याशास्त्रम्
 • साक्षरता (२०११) ७०.६८%
 • लिङ्गानुपात १.८९७ /
Time zone UTC+५:३० (भा॰मा॰स॰)
मुख्यराजमार्गः रा॰रा॰ ३०, रा॰रा॰ ८३
Website patna.nic.in

२०११ तमे वर्षे इदं बिहारराज्यस्य सर्वाधिकजनसङ्ख्यायुक्तमण्डलं भारतस्य पञ्चदशं जनसङ्ख्यायुक्तमण्डलं च अस्ति ।

इतिहासः

सम्पादयतु

पटना विश्वस्य प्राचीनतमेषु निरन्तरनिवासस्थानेषु अन्यतमम् अस्ति । मगधराजेन ४९० ई॰पू॰ तमे वर्षे अस्य स्थापना कृता । पाटलिपुत्रम् इति नाम्ना प्रसिद्धा प्राचीनपटना हर्यक-नन्द-मौर्य-शुङ्ग-गुप्त-पालसाम्राज्येषु मगधसाम्राज्यस्य राजधानी आसीत् । पाटलिपुत्रं विद्या-ललितकला-योः पीठम् आसीत् ।

आधुनिक-इतिहासः

सम्पादयतु

आधुनिकपटनामण्डलस्य निर्माणं १७७० तमस्य वर्षस्य सितम्बर्-मासे बिहारस्य राजस्व-विषयेषु निरीक्षणार्थं ब्रिटानीयैः प्रदेशीयपरिषद्-रूपेण कृतम् । १७९३ तमे वर्षे पटना पृथक् न्यायिकमण्डलम् अभवत् । अनेन आधुनिकमण्डलस्य आधारः अभवत् ।

राज्ये मण्डलानां पुनर्गठनं १९७२ तमे वर्षे अभवत् । ९ नवम्बर १९७२ तमे वर्षे पटनामण्डलस्य बिहारशरीफ अनुमण्डलम् उत्कीर्णं कृत्वा नालन्दामण्डलस्य निर्माणं कृतम् ।

पटनामण्डलस्य क्षेत्रफलं ३,२०२ वर्गकिलोमीटर् अस्ति, पश्चिमदिशि सोननदी, उत्तरदिशि गङ्गानदी च स्तः । दक्षिणे नालन्दा-अरवल-जहानाबादमण्डलैः, पूर्वदिशि बेगूसरायमण्डलेन, आग्नेयदिशि लखीसरायमण्डलेन च सीमान्तम् अस्ति ।

अनुमण्डलानि

सम्पादयतु

पटनामण्डले षट् अनुमण्डलानि सन्ति —

  1. पटना सदर
  2. पटना साहिब
  3. बाढ (बाढ़)
  4. दानापुरम्
  5. मसौढी (मसौढ़ी)
  6. पालीगञ्ज

विधानसभानिर्वाचनक्षेत्राणि

सम्पादयतु

इदं मण्डलं चतुर्दशसु विधानसभानिर्वाचनक्षेत्रेषु विभक्तम् अस्ति —

  • १७८ मौकामा
  • १७९ बाढ (बाढ़)
  • १८० बख्तियारपुरम्
  • १८१ दीघा
  • १८२ बाँकीपुरम्
  • १८३ कुम्हरार
  • १८४ पटना साहिब
  • १८५ फतुहा (फ़तुहा)
  • १८६ दानापुरम्)
  • १८७ मनेर
  • १८८ फुलवारी (अ॰जा॰)
  • १८९ मसौढी (मसौढ़ी) (अ॰जा॰)
  • १९० पालीगञ्ज
  • १९१ बिक्रम्

लोकसभानिर्वाचनक्षेत्राणि

सम्पादयतु

अस्मिन् मण्डले त्रीणि लोकसभानिर्वाचनक्षेत्राणि सन्ति —

  • ३० पटना साहिब इति बख्तियारपुरं, दीघा, बाँकीपुरं, कुम्हरार, पटना साहिब, फतुहा च एतेभ्यः छादयति ।
  • ३१ पाटलिपुत्र इति दानापुरं, मनेर, फुलवारी, मसौढी, पालीगञ्ज, बिक्रं च एतेभ्यः छादयति ।
  • २८ मुङ्गेर इति बाढ, मोकामा च एताभ्यां छादयति, मुङ्गेरमण्डलेन सह आप्नोति च ।

-सङ्ख्याः निर्वाचनक्षेत्रसङ्ख्यां सूचयन्ति ।

जनसङ्ख्याशास्त्रम्

सम्पादयतु

२०११ जनगणनानुसारं पटनामण्डलं बिहारराज्यस्य १५तमं जनसङ्ख्यायुक्तं मण्डलम् अस्ति, यस्य जनसङ्ख्या ५८,३८,४६५ अस्ति, निकारगुवादेशस्य अथवा अमेरिकीराज्यस्य मेरिलैण्ड-राज्यस्य तुल्यम् अस्ति । एतस्य मण्डलस्य जनसङ्ख्यासान्द्रता अस्ति १,८२३ प्रति वर्गकिलोमीटर् । २००१–२०११ दशके अस्य जनसङ्ख्यावृद्धिः २२.३४% आसीत् । पटनामण्डलस्य लिङ्गानुपातः अस्ति प्रत्येकं १,००० पुरुषाणां कृते ८९७ महिलानां, साक्षरतादरः अस्ति ७०.६८% । अनुसूचितजातिः अनुसूचितजनजातिः च क्रमशः जनसङ्ख्यायाः १५.७७%, ०.१५% च स्तः ।

पटनामण्डले धर्मः/मतम् (२०११)
धर्मः/मतम् प्रतिशतम्
हिन्दुधर्मः
  
91.74%
इस्लाम्-मतम्
  
7.54%
अन्यो वा नोक्तः
  
0.72%



 

पटनामण्डले भाषाः (२०११)

  मगही (46.34%)
  हिन्दी (43.77%)
  उर्दू (5.19%)
  मैथिली (1.24%)
  अन्ये (0.78%)

भारतस्य २०११ जनगणनासमये अस्मिन् मण्डले ४६.३५% जनसङ्ख्या मगहीं, ४३.७७% हिन्दीं, ५.१९% उर्दूं, २.६७% भोजपुरीं, १.२४% मैथिलीं च प्रथमाभाषारूपेण उक्तवन्तः ।

सम्बद्धाः लेखाः

सम्पादयतु

सन्दर्भाः

सम्पादयतु
  1. "District wise population in India as of 2011 census" [२०११ जनगणनानुसारं भारतदेशे मण्डलेन जनसङ्ख्या]. updateOX. २४-०५-२०११. Archived from the original on २९-१२-२०१७. आह्रियत २८-१२-२०१७.